एतद्वर्षीयश्चीन-भारतयोस्संयुक्तयुद्धाभ्यास: ‘हैंड-इन-हैंड’

भारत-चीनयो: सैन्यबालानां मध्ये  सैन्यकूटनीतिं संपर्क-संवर्धनं च सन्दृभ्य प्रतिवर्षमेव  हैंड-इन-हैंड इत्याख्यो युद्धाभ्यास: समनुष्ठीयते ।  ऐषम: संयुक्तयुद्धाभ्यास: चीनस्य चंगतू मध्ये दिसम्बर-मासस्य 10 त: 23 दिनाङ्क-पर्यन्तं प्रचलिष्यति । सेनयोरुभयो: मध्ये  नेदिष्ठ-सम्बन्धस्थापनंसम्पर्कसमेधनञ्च  अस्य युद्धाभ्यासस्य लक्ष्यमस्ति ।  देशद्वयस्य सैन्यगुल्मानां मध्ये संयुक्तयुद्धाभ्यासेन सामर्थ्य-संवर्धनमपि जायते । अस्मिन् युद्धाभ्यासे संयुक्तराष्ट्रस्य अधिदेशान्तर्गतमन्ताराष्ट्रियातङ्कवादं निर्मूलयितुं,  भीकरवादस्य परिस्थितिं सम्मुखीकर्तुं च सामरिकस्तरस्य सञ्चालनमपि समाविशति ।