चैम्पियन ऑफ द अर्थ –‘वसुन्धरा विजेता’

प्रधानमन्त्रिणे श्रीनरेन्द्रमोदिने संयुक्तराष्ट्रद्वारा चैम्पियन ऑफ अर्थ‘ इत्याख्य: “वसुन्धराविजेतृ‘ प्रतिष्ठित: पुरस्कार: उपायनीकृत: । द्वाविंशत्युत्तर-द्विसहस्रतमवर्षपर्यन्तं प्लास्टिक-पदार्थानामुपयोगावसानदिशि विहितकार्याणां योगदानं वीक्ष्य पुरस्कारोSयमुपाहृत: ।

समुन्नतोऽस्ति विश्वभालभूततुंगपर्वत:,
अतीवगर्विता: जनाश्च सन्ति मानमण्डिता:।
नमो स्वराष्ट्रवर्धक: धराविजेतृमानित:
नमोऽद्य मानितस्सखे! वसुन्धरा-सुवल्लभ:।।