भारतीयदलं विश्वचषकहॉकिस्पर्धामालिकायां प्रागुपान्त्यचक्रे

भुवनेश्‍वरे प्रवर्तमानायां विश्वचषकहॉकिस्पर्धायां पूल-सी इत्यस्मिन् समूहे शीर्षस्थं भारतीयदलं प्रागुपान्त्यचक्रं प्रविष्टम्। भारतीयदलेन शनिवासरे कनाडादलं 5-1 गोलाङ्कान्तरालेन पराजितम्। इत: पूर्वं शृङ्खलायां  बेल्जियमदलेन दक्षिणाफ्रीकावृन्दं 5-1अङ्कान्तरालेन पराजितम्। अनेन विजयेन सह बेल्जियमस्य सप्त अङ्का: संजाता:  ।