नवीनतमवार्ता:- सद्गुरु – वसुदेवजग्गी – संस्कृतवार्ता: –

वासुदेव जग्गी यो हि विश्वस्मिन्नपि विश्वे  'सद्गुरु:' इत्यभिधानेन प्रख्यातो वर्तते, सो हि  दिल्ल्यां  समायोजिते एकस्मिन् सम्मलेने  संस्कृतस्य महिम्न: गुणगानं विदधनो दृग्गोचरित:।  होटल ताज मानसिंह इत्याख्ये उपहारगृहे इंडियन फाउंडेशन द्वारा समनुष्ठिते सम्मेलने असौ  भारत-अमेरिकीय-मूलस्य संगणक-वैज्ञानिकेन श्रीसुभाष-काकेन सार्धम्  मञ्चे सम्भाषणमकरोत्।   तदानीमेव सम्भाषणोपरान्तं दर्शकदीर्घायां समासीनेन लन्दनस्थस्य Sanskrit @ St James विद्यालयस्य निर्देशकेन तेन साकं केचन संस्कृत-विषयका: ये प्रश्ना: पृष्टा: तेन सद्गुरुणा च तस्य प्रश्ना: इत्थमुत्तरिता: ।